हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Ashvattha Stotram – 1 – अश्वत्थ स्तोत्रम्
श्री नारद उवाच ।
अनायासेन लोकोऽयं सर्वान्कामानवाप्नुयात् ।
सर्वदेवात्मकं चैवं तन्मे ब्रूहि पितामह ॥ १ ॥
ब्रह्मोवाच ।
शृणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुं ।
यत्प्रदक्षिणतो लोकः सर्वान्कामान्समश्नुते ॥ २ ॥
अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुराश्रितः ।
ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ ३ ॥
स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा ।
मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ ४ ॥
पूर्वादिदिक्षु सम्याता नदीनदसरोऽब्धयः ।
तस्मात्सर्वप्रयत्नेन ह्यश्वत्थं सम्श्रयेद्बुधः ॥ ५ ॥
त्वं क्षीर्यफलकश्चैव शीतलश्च वनस्पते ।
त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ॥ ६ ॥
चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे ।
बोधिसत्त्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ ७ ॥
अश्वत्थ यस्मात्त्वयि वृक्षराज
नारायणस्तिष्ठति सर्वकाले ।
अथः शृतस्त्वं सततं तरूणां
धन्योऽसि चारिष्टविनाशकोऽसि ॥ ८ ॥
क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते ।
सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ॥ ९ ॥
एकादशात्मा रुद्रोऽसि वसुनाथशिरोमणिः ।
नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ १० ॥
अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ॥ ११ ॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मज्ञानं च मेधां च त्वं नो देहि वनस्पते ॥ १२ ॥
सततं वरुणो रक्षेत् त्वामाराद्वृष्टिराश्रयेत् ।
परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ॥ १३ ॥
अक्षिस्पन्दं भुजस्पन्दं दुस्स्वप्नं दुर्विचिन्तनं ।
शत्रूणां समुत्थानं ह्यश्वत्थ शमय प्रभो ॥ १४ ॥
अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने ।
नमो दुस्स्वप्ननाशाय सुस्वप्नफलदायिने ॥ १५ ॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १६ ॥
यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते ।
यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ॥ १७ ॥
अश्वत्थ सुमहाभाग सुभग प्रियदर्शन ।
इष्टकामाम्श्च मे देहि शत्रुभ्यस्तु पराभवम् ॥ १८ ॥
आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदं ।
देहि देव महावृक्ष त्वामहं शरणं गतः ॥ १९ ॥
ऋग्यजुस्साममन्त्रात्मा सर्वरूपी परात्परः ।
अश्वत्थो वेदमूलोऽसौ ऋषिभिः प्रोच्यते सदा ॥ २० ॥
ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः ।
आवृत्त्य लक्षसङ्ख्यं तत् स्तोत्रमेतत्सुखी भवेत् ॥ २१ ॥
ब्रह्मचारी हविर्ह्य़ाशी त्वदश्शायी जितेन्द्रियः ।
पापोपहतचित्तोपि व्रतमेतत्समाचरेत् ॥ २२ ॥
एकहस्तं द्विहस्तं वा कुर्य़ाद्गोमयलेपनं ।
अर्चेत्पुरुषसूक्तेन प्रणवेन विशेषतः ॥ २३ ॥
मौनी प्रदक्षिणं कुर्यात्प्रागुक्तफलभाग्भवेत् ।
विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ॥ २४ ॥
पदे पदान्तरं गत्वा करचेष्टाविवर्जितः ।
वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् ॥ २५ ॥
अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः ।
धनायुषां समृद्धिस्तु नरकात्तारयेत्पितॄन् ॥ २६ ॥
अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः ।
एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७ ॥
अश्वत्थमूल माश्रित्य जपहोमसुरार्चनात् ।
अक्षयं फलमाप्नोति ब्रह्मणो वचनं तथा ॥ २८ ॥
एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते ।
यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ॥ २९ ॥
छिन्नो येन वृथाऽश्वत्थश्छेदिताः पितृदेवताः ।
अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ॥ ३० ॥
इति श्री ब्रह्म नारद संवादे अश्वत्थ स्तोत्रं सम्पूर्ण
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.